॥ वसुधैव कुटुम्बकम् ॥One earth. One family.
PujaOnlineDEVOTION WITHOUT BORDERSFind a practitioner

Katha Sangrah Hindi

दामोदर: यशोदा के प्रेम का बन्धन

Damodara and Yashoda’s love

गृहस्थ जीवन के छोटे प्रसंग में अनन्त कृष्ण और माता यशोदा के स्नेह का मिलन।

Yashoda’s household care becomes the setting for a tender divine play.

हिन्दी · संस्कृतलगभग 10 मिनटKrishna

संस्कृत मूल Prayer text

श्रीमद्भागवत १०.९ — यशोदा द्वारा श्रीकृष्ण का बन्धन (23 श्लोक)

श्रीकृष्णस्य उलूखले बन्धनम् - ( अनुष्टुप् ) श्रीशुक उवाच । एकदा गृहदासीषु यशोदा नन्दगेहिनी । कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १ ॥

यानि यानीह गीतानि तद्‍बालचरितानि च । दधिनिर्मन्थने काले स्मरन्ती तान्यगायत ॥ २ ॥

( मंदाक्रांता ) क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं । पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः । रज्ज्वाकर्षश्रमभुजचलत् कङ्‌कणौ कुण्डले च स्विन्नं वक्त्रं कबरविगलन् मालती निर्ममन्थ ॥ ३ ॥

( अनुष्टुप् ) तां स्तन्यकाम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधिमन्थानं न्यषेधत्प्रीतिमावहन् ॥ ४ ॥

( मिश्र ) तमङ्‌कमारूढमपाययत् स्तनं स्नेहस्नुतं सस्मितमीक्षती मुखम् । अतृप्तमुत्सृज्य जवेन सा ययौ उत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५ ॥

सञ्जातकोपः स्फुरितारुणाधरं सन्दश्य दद्‌भिर्दधिमन्थभाजनम् । भित्त्वा मृषाश्रुर्दृषदश्मना रहो जघास हैयङ्‌गवमन्तरं गतः ॥ ६ ॥

उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्यमत्रकम् । भग्नं विलोक्य स्वसुतस्य कर्म तज्जहास तं चापि न तत्र पश्यती ॥ ७ ॥

उलूखलाङ्‌घ्रेरुपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्‌गवं चौर्यविशङ्‌कितेक्षणं निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥ ८ ॥

तां आत्तयष्टिं प्रसमीक्ष्य सत्वरः ततोऽवरुह्यापससार भीतवत् । गोप्यन्वधावन्न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९ ॥

अन्वञ्चमाना जननी बृहच्चलत् श्रोणीभराक्रान्तगतिः सुमध्यमा । जवेन विस्रंसितकेशबन्धन च्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥

कृतागसं तं प्ररुदन्तमक्षिणी कर्षन्तमञ्जन्मषिणी स्वपाणिना । उद्वीक्षमाणं भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥

( अनुष्टुप् ) त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भकवत्सला । इयेष किल तं बद्धुं दाम्नातद्‌वीर्यकोविदा ॥ १२ ॥

न चान्तर्न बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तः जगतो यो जगच्च यः ॥ १३ ॥

तं मत्वात्मजमव्यक्तं मर्त्यलिङ्‌गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥

तद्दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्यङ्‌गुलोनमभूत्तेन सन्दधेऽन्यच्च गोपिका ॥ १५ ॥

यदाऽऽसीत् तदपि न्यूनं तेनान्यदपि सन्दधे । तदपि द्व्यङ्‌गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ १६ ॥

एवं स्वगेहदामानि यशोदा सन्दधत्यपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥

स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयाऽऽसीत् स्वबन्धने ॥ १८ ॥

एवं सन्दर्शिता ह्यङ्‌ग हरिणा भृत्यवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥

नेमं विरिञ्चो न भवो न श्रीरप्यङ्‌गसंश्रया । प्रसादं लेभिरे गोपी यत् तत्प्राप विमुक्तिदात् ॥ २० ॥

नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतां इह ॥ २१ ॥

कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीत् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ २२ ॥

पुरा नारदशापेन वृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवौ इति ख्यातौ श्रियान्वितौ ॥ २३ ॥

श्रीमद्भागवत १०.१० — नलकूबर और मणिग्रीव का उद्धार (43 श्लोक)

यमलार्जुनोद्धारः - ( अनुष्टुप् ) श्रीराजोवाच । कथ्यतां भगवन् एतत् तयोः शापस्य कारणम् । यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १ ॥

श्रीशुक उवाच । रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥

वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ । स्त्रीजनैः अनुगायद्‌भिः चेरतुः पुष्पिते वने ॥ ३ ॥

अन्तः प्रविश्य गङ्‌गायां अंभोजवनराजिनि । चिक्रीडतुर्युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥

यदृच्छया च देवर्षिः भगवांस्तत्र कौरव । अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥

तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्‌किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥

तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥

श्रीनारद उवाच । न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिः यत्र स्त्री द्यूतमासवः ॥ ८ ॥

हन्यन्ते पशवो यत्र निर्दयैः अजितात्मभिः । मन्यमानैरिमं देहः अजरामृत्यु नश्वरम् ॥ ९ ॥

देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितम् । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १० ॥

देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च । मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११ ॥

एवं साधारणं देहं अव्यक्त प्रभवाप्ययम् । को विद्वान् आत्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥

असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥

यथा कण्टकविद्धाङ्‌गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्‌गैः न तथाविद्धकण्टकः ॥ १४ ॥

दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥

नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्‌क्षिणः । इन्द्रियाणि अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥

दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः । सद्‍भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥

साधूनां समचित्तानां मुकुन्द चरणैषिणाम् । उपेक्ष्यैः किं धनस्तम्भैः असद्‌भिः असदाश्रयैः ॥ १८ ॥

तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः । तमोमदं हरिष्यामि स्त्रैणयोः अजितात्मनोः ॥ १९ ॥

यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥

अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥

वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२ ॥

श्रीशुक उवाच । एवमुक्त्वा स देवर्षिः गतो नारायणाश्रमम् । नलकूवरमणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥

ऋषेर्भागवत मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥

देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद्‍गीतं तन्महात्मना ॥ २५ ॥

इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ । आत्मनिर्वेशमात्रेण तिर्यग्गतं उलूखलम् ॥ २६ ॥

( वसंततिलका ) बालेन निष्कर्षयतान्वगुलूखलं तद् दामोदरेण तरसोत्कलिताङ्‌घ्रिबन्धौ । निष्पेततुः परमविक्रमितातिवेप स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥

तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः । कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८ ॥

( अनुष्टुप् ) कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९ ॥

त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥

त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥

गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्‌सिद्धं गुणसंवृतः ॥ ३२ ॥

तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥

यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैः वीर्यैर्देहिष्वसङ्‌गतैः ॥ ३४ ॥

स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥

नमः परमकल्याण नमः परममङ्‌गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥

अनुजानीहि नौ भूमन् तवानुचरकिङ्‌करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥

( वसंततिलका ) वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥

श्रीशुक उवाच । ( अनुष्टुप् ) इत्थं सङ्‌कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥

श्रीभगवानुवाच । ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः ॥ ४० ॥

साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्‍बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥

तद्‍गच्छतं मत्परमौ नलकूबर सादनम् । सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः ॥ ४२ ॥

श्रीशुक उवाच । इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥

स्रोत और संस्करण Sources & edition

हिन्दी: PujaOnline की मौलिक कथा-पुनर्कथन प्रस्तुति। संस्कृत: नीचे दिए विकिस्रोत संस्करण के पूर्ण अध्याय; प्राचीन मूल पाठ।

हिन्दी कथा-सार एवं मनन: PujaOnline; प्राचीन मूलग्रन्थों के अध्याय-संदर्भ नीचे दिए हैं। संस्कृत अध्यायों के डिजिटल पाठ का स्रोत: विकिस्रोत और उसके योगदानकर्ता; छन्द-सूचनाएँ स्रोत के अनुसार रखी गई हैं।

Original PujaOnline Hindi retelling and explanation. Any quoted ancient Sanskrit passage is public domain; modern translations and commentaries are not reproduced. संस्कृत मूल प्राचीन सार्वजनिक-क्षेत्र की रचना है; विकिस्रोत के डिजिटल संस्करण का उपयोग स्रोत-आभार तथा उसकी लागू Creative Commons Attribution-ShareAlike शर्तों के साथ किया गया है।