॥ वसुधैव कुटुम्बकम् ॥One earth. One family.
PujaOnlineDEVOTION WITHOUT BORDERSFind a practitioner

Katha Sangrah Hindi

गोवर्धन-धारण और व्रज की रक्षा

Krishna lifts Govardhana

गोवर्धन-पूजन, इन्द्र का अभिमान और संकट में पूरे व्रज को मिला आश्रय।

The Govardhana story joins gratitude, protection and the humbling of pride.

हिन्दी · संस्कृतलगभग 5 मिनटKrishna

संस्कृत मूल Prayer text

श्रीमद्भागवत १०.२५ — गोवर्धन धारण (33 श्लोक)

कोपान् मुसलधारावर्षं वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम् - श्रीशुक उवाच - ( अनुष्टुप् ) इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥

गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥

यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥

वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥

एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्‌क्षयम् ॥ ६ ॥

अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् । मरुद्‍गणैर्महावेगैः नन्दगोष्ठजिघांसया ॥ ७ ॥

श्रीशुक उवाच - इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥

विद्योतमाना विद्युद्‌भिः स्तनन्तः स्तनयित्‍नुभिः । तीव्रैर्मरुद्‍गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥

स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः । जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम् ॥ १० ॥

अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥

शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥

शिलावर्षानिपातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥

अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् । स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति ॥ १५ ॥

तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये । लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः ॥ १६ ॥

न हि सद्‍भावयुक्तानां सुराणामीशविस्मयः । मत्तोऽसतां मानभङ्‌गः प्रशमायोपकल्पते ॥ १७ ॥

तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥

इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया कृष्णः छत्राकमिव बालकः ॥ १९ ॥

अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने । वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१ ॥

तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः । वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥

कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः । निःस्तम्भो भ्रष्टसङ्‌कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥

खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ २५ ॥

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥

ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥

भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥

( मिश्र ) तं प्रेमवेगान् निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्‌भिर्युयुजुः सदाशिषः ॥ २९ ॥

( अनुष्टुप् ) यशोदा रोहिणी नन्दो रामश्च बलिनां वरः । कृष्णमालिङ्‌ग्य युयुजुः आशिषः स्नेहकातराः ॥ ३० ॥

दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥

शङ्‌खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः । जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप ॥ ३२ ॥

( मिश्र ) ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥

स्रोत और संस्करण Sources & edition

हिन्दी: PujaOnline की मौलिक कथा-पुनर्कथन प्रस्तुति। संस्कृत: नीचे दिए विकिस्रोत संस्करण के पूर्ण अध्याय; प्राचीन मूल पाठ। स्रोत में श्लोक २५ की संख्या रिक्त थी; क्रम और मूल पाठ को वेदबेस १०.२५.२५ से मिलाकर संख्या जोड़ी गई है।

हिन्दी कथा-सार एवं मनन: PujaOnline; प्राचीन मूलग्रन्थों के अध्याय-संदर्भ नीचे दिए हैं। संस्कृत अध्यायों के डिजिटल पाठ का स्रोत: विकिस्रोत और उसके योगदानकर्ता; छन्द-सूचनाएँ स्रोत के अनुसार रखी गई हैं।

Original PujaOnline Hindi retelling and explanation. Any quoted ancient Sanskrit passage is public domain; modern translations and commentaries are not reproduced. संस्कृत मूल प्राचीन सार्वजनिक-क्षेत्र की रचना है; विकिस्रोत के डिजिटल संस्करण का उपयोग स्रोत-आभार तथा उसकी लागू Creative Commons Attribution-ShareAlike शर्तों के साथ किया गया है।